(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.18. अध्यायः 018
Mahabharata - Bhishma Parva - Chapter Topics
कुरुसेनावर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-18-0x(3993)(39302)
ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः।
अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ 6-18-1(39303)
शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः ।
नोमिघोषै रथानां च दीर्यतीव वसुन्धरा ॥ 6-18-2(39304)
हयानां हेषमाणानां योधानां चैव गर्जताम्।
क्षणेनैव नभो भूमिः शब्देनापूरितं तदा ॥ 6-18-3(39305)
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च ।
समकम्पन्त सैन्यानि परस्परसमागमे ॥ 6-18-4(39306)
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।
भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ 6-18-5(39307)
ध्वजा बहुविधाकारास्तावकानां नराधिप ।
काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ 6-18-6(39308)
स्वेषां चैव परेषां च समदृश्यन्त भारत।
महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ 6-18-7(39309)
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः।
सन्नद्धाः समदृश्यन्त ज्वलनार्कसमप्रभाः ॥ 6-18-8(39310)
कुरुयोधवरा राजन्विचित्रायुधकार्मुकाः ।
उद्यतैरायुथैश्चित्रैस्तलबद्धाः पताकिनः ॥ 6-18-9(39311)
ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ।
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप ।
दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ 6-18-10(39312)
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ 6-18-11(39313)
रथा विंशतिसाहस्रास्तथैषामनुयायिनः।
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 6-18-12(39314)
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रैगर्ताः केकयास्तथा।
सौवीराः कैतवाः प्राच्याः प्रतीच्येदीच्यवासिनः ॥ 6-18-13(39315)
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।
महता रथवंशेन ते ररक्षुः पितामहम् ॥ 6-18-14(39316)
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।
मागधो यत्र नृपतिस्तद्रथानीकमन्वयात् ॥ 6-18-15(39317)
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम्।
अभवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ 6-18-16(39318)
पादाताश्चाग्रतो गच्छन्धनुश्चर्मासिपाणयः ।
अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ 6-18-17(39319)
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत।
अदृश्यत महाराज गङ्गेव यमुनान्तरा ॥ ॥ 6-18-18(39320)

इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि अष्टादशोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-18-16 शतानागयुतानि षट् षट्शतान्ययुतगुणानि। षष्टिलक्षाणीति यावत् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.